________________
पाणिनीसूलव्याख्या
अस्मिन्नेव ग्रन्थे लो0 735. सर्वान् पथस्तथान् व्यामोतीति सर्वपथीनम् । 'पूर्वकाल ' ( सु. 726) इति समासः । 'ऋक्पू' (सू. 940) इति समासान्तः । अनेन ख।
अस्मिन्नेव ग्रन्थे श्लो० 9. सर्वप्रथीनया।
अनघराघवे-I. 44.
ध्यानमयदृष्टिपातप्रमुषितकालाध्वविप्रकर्षेषु । विषयेषु नैष्ठिकानां सर्वपथीना मतिः क्रमते ॥ 1648 ।।
सर्वपथीना सर्वपथव्यापिनी। अस्मिन्नेव ग्रन्थे श्लो• 1521. सर्वाङ्ग व्यामोतीति सर्वाङ्गीणे । खः ।
अस्मिन्नेव ग्रन्थे श्लो० 1450. सर्वकर्माणि व्याप्नुत इति सर्वकर्मीणौ । 'अषडक्षाशितगु' (सु. 2079 ) इति खार्थे खः ।
अस्मिन्नेव ग्रन्थे श्लो० 1191. अलं कर्मणे अलंकर्मीणः । तपश्चर्यायामलकर्मीणः समर्थः । 'कर्मक्षमोऽलंकर्मीण' III. i. 18. इत्यमरः ।
१८०९ । आप्रपदं व्याप्नोति । (५. २. ८) पादस्याग्रं प्रपदम् । तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः । माघे--III. 10.
मुक्तामय सारसनावलम्बि
भाति स दामाप्रपदीनमस्य । अङ्गुष्ठनिष्ठय्तमिवोर्ध्वमुच्चै
त्रिस्रोतसस्सन्ततधारमम्भः ।। 1649 ।। आप्रपदं व्यामोतीति आप्रपदीनं पादानचुम्बि । खपत्ययः । १८१० । अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । (५. २. ९)