________________
पाणलेल्यूलमाया
अम्मिन्नेव अन्थे श्लोक 1147. सुहृदो भावः लोहार्दम् । युवाद्यण : 'हृद्भगः (सू. 1138) इत्युभयपदवृद्धिः ।
अम्मिन्नेव ग्रन्थे लोc 899. सुभ्रातृणां भावः सोभ्रात्नम् । युवादित्यादण् । कुमारसंभवे-IV. 31.
विधिना कृतमधवेशसं ननु मां कामवधे विमुञ्चता ।
अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी !! 1632 il विशसति हिनस्तीति विशसो घातुकः । पचाद्यच् । विशसम्य कर्म वैशसम् । युवादित्वादण् । भट्टिकाव्ये-XVII. 104.
उभावकृन्ततां केतूनव्यथेतामुझौ न तौ।
अदीप्येतानुभौ धृष्णू प्रायुजातां च नैपुणम् ।। 1633 ।। नैपुणं निपुणकर्म । अस्मिन्नेव ग्रन्थे श्लोक 1617. चपलस्य भावश्चापल्यम् । ब्राह्मणादित्वात्व्यञ् । .
१७९६ । इगन्ताच्च लघुपूर्वात् । (५. १. १३१)
शुचेभोवः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादि. स्वात् ष्यन् ।
अस्मिन्नेव ग्रन्थे श्लो० 1612. काव्यं कविकर्म । ब्राह्मणादित्वात् व्यञ् ।
१७९७ । योपधाद्गुरूपोत्तमागुञ् । (५. १. १३२ ) रामणीयकम् ।
वा । सहायाद्वा । ( 3094.) साहाय्यम् । साहायकम् । किरातार्जुनीये-~-IV. 4.
तुतोष पश्यन् कलमस्य सोऽधिकं
सवारिजे वारिणि रामणीयकम् ।