________________
আমি
५२५ एभ्यो यत्स्यात् । दण्डमहे ति दण्डयः । अयः । वध्यः । दण्डादि:- ५.७. - रघुवंशे-I. 25.
स्थित्यै दण्डयतो दण्डयान् परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यस्तां धर्म एव मनीषिणः ।। 1579 ।। दण्डमहन्तीति दण्डयाः । यत् । अस्मिन्नेव ग्रन्थे श्लो० 564. वध्यः वाहः । माघे-XV. 20.
स्वयमेव शन्तनुतनूज यमिह गणमय॑मभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्य वन्दिवदभिष्टुपे वृथा ।। 1580 ।। अय॑मर्हिम् । यत् ।
अस्मिन्नेव ग्रन्थे श्लो० 984. अयं पूजाहम् । मनेन यत् । अर्धार्थ पूजार्य द्रव्यमर्यम् । 'पादा भ्यां च ' (सू. 2993) इति तादर्थे यत् ।
१७३३ । कडङ्करदक्षिणाच्छ च । (५.१.६९)
चाद्यत् । कडं करोतीति विग्रहेज एव निपातनात्खच । कडङ्करं माषमुगादिकाष्ठमर्हतीति कडकरीयो गौः । कडयः । दक्षिणामहतीति दक्षिणीयः । दक्षिण्यः । 'दक्षिणीयो दक्षिणाईस्तत्र दक्षिण्य इत्यपि ' III. i. F. इत्यमरः । .
अस्मिन्नेव मन्ये श्लो. 1469. कहकर बुसमईन्तीति कडकरीया गोमहिषादयः । छः।
अस्मिन्नेव ग्रन्थे श्लो० 76. दक्षिणीयम् । छ। अनवराघवे-VII. 140.
वीरमिन्द्रजित जित्वा दिष्ट्या वर्षयतो जगत् ।
अभये दक्षिणीयस्ते गीर्वाफमामणीरपि ।। 1581 || दक्षिणीयो दक्षिणाईः । इन्द्रजिजयेन इन्द्रस्याप्यमये दक्षिणा माता दतेति । .