________________
५२६
भट्टिकाव्ये - II. 20.
पाणिनिसूत्रव्याख्या
प्रतुष्टुवुः कर्म ततः प्रक्लृप्तैस्तैर्यज्ञियैर्द्रव्यगुणैर्यथावत् । दक्षिण्यदिष्टं कृतमाविंजी नैस्तद्यातुधानैश्चिचिते प्रसर्पत् ॥ 1582 1
दक्षिणा मर्हन्तीति दक्षिण्या : महामुनयः । यत् ।
१७३४ । स्थालीविलात् । (५.१.७० )
स्थालीबिलमर्हन्ति स्थालीबिलीया: स्थालीबिल्याः तण्डुलाः । पाकयोग्या इत्यर्थ: :
१७३५ | यज्ञर्विग्भ्यां घञौ । (५.१.७१ )
यथासंख्यं स्तः । यज्ञमृत्विजं वा अर्हति यज्ञियः आर्त्विजीनो यजमानः । वा० । यज्ञर्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् । (3052. ) यज्ञियो देशः । आर्लिंजीन ऋत्विक् ।
भट्टिकाव्ये - XIV. 99.
प्रतोदा जगलुर्वाममानञ्चुर्यज्ञिया मृगाः । ददाल भूः पुपूरे द्यौः कपीनामपि निस्वनैः || 1583 ||
यज्ञिया यज्ञार्हा मृगाः । घः ।
भट्टिकाव्ये - VII. 45.
वेद्रिवत्सपरिग्राहा यज्ञियैस्संस्कृता द्विजैः ।
दृश्या मासतमादहः प्रागनिन्दितवेषभृत् ॥ 1584 ॥
यज्ञियैः यज्ञार्हैः । घः । द्विजैः ।
अस्मिन्नेव प्रन्ये श्लो० 1582. यज्ञियैः यज्ञकर्मा हैं : द्रव्यगणैः पशुसोमादिभिः । आत्विजीनैः ऋत्विकर्महिः । उभयत्र यथासङ्ख्यं घखनौ ।
।
॥ इत्याहयप्रकरणम् ॥