________________
पाणिनिसूलव्याख्या
भट्टिकाव्ये-IV. 10.
वसानस्तन्त्रकनिभै सर्वाङ्गीणे तरुत्वचौ ।
काण्डीरः खाङ्गिकरशाङ्गौ रक्षन्विप्रस्तिनुत्रवान् ।। 1521 11 खनः प्रहरणमस्य खानिकः । अनेन ठक् । खझिक इति पाठे खगोऽस्यास्तीति खगिकः । ' अत इनिठनौ' (सू. 1922) इति उन् । माधे-, 28.
अनिलोडितकार्यस्य वाग्जाल वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव बल्गितम् ।। 1522 !! धनुः प्रहरणमस्येति धानुको धन्वी । ठक् । अस्मिन्नेव ग्रन्थे श्लो० 1034. धानुष्काः । प्रासिकाः ।
१६०८ । परश्चथाट्ठा च । (४. ४. ५८) पारश्वथिकः । अस्मिन्नेव ग्रन्थे लो० 1034. परश्वथः प्रहरणमेषां पारश्वथिकाः ।
१६०९ । शक्तियष्टयोरीकक् (४. ४. ५९) शाक्तीकः । याष्टीकः । अस्मिन्नेव ग्रन्थे श्लो० 1034. शक्तिः प्रहरणमेषां शाक्तीकाः । ईकक् । अस्मिन्नव ग्रन्थे श्लो० 610. यष्टिः प्रहरणमेषां याष्टीकाः । ईकक् ।
१६१० । अस्ति नास्ति दिष्टं मतिः । (४. ४. ६०)
तदस्येत्येव । अस्ति परलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतियस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ।
अस्मिन्नव ग्रन्थे श्लो० 948. परलोके मतिरस्तीत्यास्तिकः । ठक् । माघे.-XVI. 7.
अहितादनपत्रपस्त्रसन्नतिमालोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ।। 1528 ।। नास्ति परलोक इति मतिरस्येति नास्तिकः । ठक् ।