________________
६
रघुवंशे - I. 87.
कल्याणी ।
रघुवंशे - XII. 6.
अडूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव य ॥ 157 ||
पाणिनिसूत्रव्याख्या
1
सा किलाश्वासिता चण्डी भी तत्व उद्ववामेन्द्रसिक्ता भूर्बिलममा विवोरगौ || 158 ||
चण्डीति ङीष् ।
(ग. सू ) कृदिकारादक्तिन: 50.
वा ङीष् ।
रघुवंशे - XVII. 66.
6
खनिभिः सुषुवे र क्षेत्रः सत्यं वनैर्गजान्
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ 159 ||
' खनिकषि' (उ. सू. 579 ) इत्यौणादिक इप्रत्ययः । खनिः । ' म्पनिः स्त्रियामाकरः स्यात् ' II iii. 7. इत्यमरः ।
नैषधे - II. 25.
खनीति विकल्पे ङीष् ।
रघुवंशे - VI. 22.
हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम || 160 ||
कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रतारा ग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ 161 ॥
राशदिभ्यां त्रिप् ' ( उ. सू. 507 ) इत्यौणादिकः त्रिप् । न ङीप् । भट्टिकाव्ये - XIV. 48.
तिरोबभूवे सूर्येण प्रापे च निशयास्पदम् ।
जसे कालरात्रीव वानरानराक्षसांश्च सा || 162 ॥
रात्रीति ङीष् ।