________________
स्त्रीप्रत्ययप्रकरणम्
अनधराघवे-- V. 28.
समन्तादुन्मीलहललहरीलङ्घनकला
लघुप्रेवत्पम्पानिलविदलदेलासुरभयः ! अविद्यावैदेहीशतलिपिकरीणां मम धिया.
ममी हस्तालम्ब विपिनविनिवेशा विदधते ॥ 168 ॥ सर्वधातुभ्य इनित्यनुवृत्तौ ‘इगुपधारिकत् ' (उ. सू 559) इत्यौणादिक इन् । लिपिः स्त्री । न ङीष् ।
नैषधे-VI. 64. विलेखितुं भीमभुवो लिपीषु सख्यातिविख्यातिभृतापि यत्र ।
अशाकि लीलाकमलं न पाणिरपारि कर्णोत्पलमक्षि नैव ॥ 164 || लिपीति ङीष् । अक्तिन इति क्तिन्प्रत्ययान्तस्य ङीनिषेधाद्विख्यातिरिति हखान्त एव । चम्पूरामायणे-V. 19.
रजनिचरमभागे वारसीमन्तिनीनां.
करतलकलिताभिर्दीपिकामार्जनीभिः । दिशि दिशि परिमृष्टं यत्तमस्तत्समस्तं
हृदयमवजगाहे केवलं रावणस्य ।। 165 ।। रजनिरितीकारान्तः । ' अतिम ' ( उ. सू. 259.) इति अनिः । अस्मिन्नव ग्रन्थे श्लो० 93. रजनीति ङीष् । नैषधे-~-I. 102.
विलासवापीतटवीचिवादनात्
पिकालिगीतेः शिखिलास्यलाधवात् । वनेऽपि तौर्यत्रिकमारराध तं
क भोगमाप्नोति न भाग्यभाग्जनः ॥ 166 ॥ 'वेजो डिच्च' (उ. सू. 512 ) इत्यौणादिक ईचिप्रत्ययः । 'स्त्रियां वीचिरथोर्मिषु ' I. ix. 5. इत्यमरः ।