________________
स्त्रीप्रत्ययाप्रकरण
उडुपरिषदि मध्यस्थायिशीतांशुलेखा
नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥ 152 ।। पटव्यः पटवो वा लक्ष्म्यो यस्याः सा पटुलक्ष्मीः । अस्मिन्नेव ग्रन्थे श्लो० 119. पृथ्वीति ङीष् , पृथुरिति च स्यात् । चम्पूभारते-III. 128.
ज्वालतापभरकुण्डलिताङ्गीः क्ष्वेडसारवृतसेचनमृद्वीः ।
सर्पपुङ्गवततीरतिहृष्टः शष्कुलीरिव चर्व कृशानुः ।। 153 ॥ मृद्वीरिति ङीष् । मृदुरिति च स्यात् । - ५०३ । बह्वादिभ्यश्च । (४. १. ४५) एभ्यो वा ङीष् स्यात् । बह्वी बहुः । बह्वादिः. ४-५. माघे-VII. 2.
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिशयमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम् ।। 154 | बहीरिति ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 145. शस्त्री ङीष् । माघे-XVIII. 57.
पौनःपुन्यादनगन्धेन मत्तो मृदन्कोपाल्लोकमायोधनोाम् ।
पादे लमामन्त्रमालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ 155 ॥ पाशी। माघे-XII. 8.
गण्डोज्वलामुज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाविधुरां वधूमिव ॥ 156 ।। स्थीमिति ङीष् ।