________________
ব্যাসিলিলা
५०२ । बोतो गुणवचनात् । (४, १.४४)
उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 94. गुः । भट्टिकाव्ये-XVII. 90.
अश्वान्विभीषणोऽतुभ्नात्स्यन्दनं चाक्षिणोद् द्रुतम् ।
नाक्षुम्नाद्राक्षसो भ्रातुः शक्तिं चोदवृहद् गुरुम् ।। 1-4) । गुरुमिति विकल्पे न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 28. तन्वीमिति ङीष् । कुमारसम्भवे--VI. 25.
अथ मौलिगतस्येन्दोविंशदैर्दशनांशुभिः ।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ 150 ।। तन्वीमिति ङीष् । किरातार्जुनीये-X. ४.
कुसुमितमवलम्ब्य चूतमुच्चै
स्तनुरिभकुम्भपृथुस्तनानताङ्गी । तदभिमुखमनचापयष्टि
विसृतगुणेव समुन्ननाम काचित् ॥ 151 ।। तनुरिति न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 108. तनुरितिं न डीम् । अस्मिन्नेव ग्रन्थे श्लो० 104. पट्टीति ङीष् । पटुरिति च स्यात् । नैषधे-II. 107.
अथ कनकपतत्रस्तत्र तां राजपुत्री
सदसि सहशभासां विस्फुरन्ती सखीनाम् ।