________________
स्त्रीप्रत्ययप्रकरणम्
३३ शस्त्रीश्यामैरशुभिराशु द्रुतमम्भ
श्छायामच्छामृच्छति नीलीसलिलस्य ।। 145 ॥ नीली नील्याख्यौषधिः । 'नीली काला क्लीतकिका ' II. iv. 95. इत्यमरः । माघे-~-XX. 51.
प्रसृतं रभसादयोऽमिनीला
प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहे
गजमन्दुरिव निश्चलं चकार ।। 146 || नीला नीलवर्णा । टाप् । कुशी अयोविकारश्चेत् । कामुकी मैथुनेच्छा चेत् । कामुकान्या । 'इच्छावती कामुका स्याद्वषस्यन्ती तु कामुकी' II. vi. 9. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 84.
कामुकी। 'लषपत' (सू. 3134) इत्युकञ् । ङीष । कबरी केशानां संनिवेशश्चेत् , कबरान्या । चित्रेत्यर्थः ।
माघे-V. 19.
दृष्टेव निर्जितकलापभरामधस्ता___ द्वयाकीर्णमाल्यकबरां कबरी तरुण्याः । प्रादुद्रुवत्सपदि चन्द्रकवान् द्रुमाग्रात्
सङ्घर्षिणा सह गुणाभ्यधिकैर्दुरासन् ॥ 147 ।। अत्र द्वयमपि वर्तते ।
५०१ । शोणात्प्राचाम् । (४. १. ४३) शोणी शोणा। चम्पूभारते-III. 114.
शोणरुचा शिखयातिमहत्या बाणपुरावृतिवासनयेव ।
चण्डतरोऽस्य वनस्य समन्तात् कुण्डलनां कलयन्ववृधेऽग्निः ॥ 148 ।। शोणी शोणा वा रुक् यस्याः सा शोणरुक् , उभयत्रापि पुंवदावः ।