________________
३२
पाणिनिसूलव्याख्या
पर्य शब्दविद्यापरिमलसरले पङ्कजस्पर्धिनेला
व्यक्तिर्वेगापगायां स्वपिति समुदिता कापि तापिच्छ्वर्णा ॥ 141 ॥
गोणी आवपनं चेत् । माघे — XII. 10. नस्य गृहीतोऽपि धुवन् विषाणयोयुगं सत्कारविवर्तितत्रिकः । गोणीं जनेन स्म निधातुमुद्यतामनुक्षण नोक्षतरः प्रतीच्छति ॥ 142 ॥
किरातार्जुनीये - IV. 2.
विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्नुपसीम स स्थलीरुपायिनीभूतशरगुणश्रियः ॥ 143 ॥
स्थली: अकृत्रिमा भुवः । अकृत्रिमार्थे डीष् । भाजी श्राणा चेत् । नागी स्थूला चेत् । गजवाची नागशब्दः ।
1
काली वर्णश्चेत् । माघे - XII. 68 यस्या महानीलतटीरिव द्रुताः
प्रयान्ति पीत्वा हिमपिण्डपाण्डवः ।
काली रस्ता भिरिवानुरञ्जिताः
क्षणेन भिन्नाञ्जनवर्णतां घनाः ॥ 144 ॥
काली: कृष्णवर्णाः । नीली अनाच्छादनं चेत् । नीलान्या । नील्या रक्ता शाटीत्यर्थः 1 'नील्या अन्वक्तव्य ' (ar 2680. सु. 1203 ) इत्यन् । अनाच्छादनेऽपि न सर्वत्र । किंतु
वा० नील दोषधौ ( 2456. ) नीली । वा० प्राणिनि च (2458. ) नीली गौः । वा० संज्ञायां वा (2457. ) नीली नीला |
माघे - IV. 44.
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रे
र्वापीष्वन्तली नमहानीलदलासु ।