________________
स्त्रीप्रत्ययप्रकरणम् सूर्यस्यायं सौर्यः । 'तस्येद' (मृ. 1500.) मित्यण् । 'टिड्ढाणञ्' (सू. 470.) इत्यादिना ङीप् । सूर्यस्येयं सौरी । अत्र यलोपः । किरातार्जुनीये-XVI. 17.
इयं च दुर्वारमहारथानामाक्षिप्य वीर्य महतां बलानाम् ।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाग्नि दीप्तिः ।। 188 ॥ रघुवंशे-~XVIII. 32.
तस्य प्रभानिर्जितपुष्यराग पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टि जनाः पुष्य इव द्वितीये ॥ 139 ॥
पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमाम्यां तिथौ । 'पुष्ययुक्ता पौर्णमासी पौषी' I. iii. 14. इत्यमरः । नक्षत्रेण युक्तः कालः' (सू. 1204.) इत्यण । टिड्ढाणनि' (सू. 470.) त्यादिना ङीपि यलोपः ।
माधे-III. 1.
कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेलयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ 140 || .
अगस्त्यस्यायमागस्त्यः । 'तस्येदमि' (सू. 1500. ) त्यण । 'टिड्ढाणानि । (सू. 470 ) त्यादिना डीपि अगस्तीति यलोप: स्यात् । ५०० ॥ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वत्त्यमला. वपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ (४. १.४२)
एकादशभ्यः प्रातिपदिकेभ्यः क्रमात् वृत्त्यादिष्वर्येषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदा । उत्सादित्वादनन्तत्वेन ' टिड्ढाणनि' (सू. 470 )ति ङीष् । कुण्डी अमत्रं चेत् । जारजा कुण्डा ।
विश्वगुणादर्श-278. आशामीशानबन्धोश्चरणनवरुचां धारया स्मेरयन्ती कुण्डीडिम्भस्य काष्ठामपि मणिमकुटन्युप्तमुक्तामयूखैः ।