________________
शैषिकप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 55. साये सायं वा भका सायन्ननी । ट्युः । डीप् । दिवा भवां दिवातनीम् । पूर्ववत् । सदा भवा सदाननी । पूर्ववत् । माघे-VI. 72.
मुदमव्दभुवामपां मयूराः
सहसायन्त नदी पपाट लाभे । अलिनारमतालिनी शिलीन्भ्रे
सह सायन्तनदीपपाटलामे || 1433 || सायं भवस्सायन्तनः । ट्यः । तुडागमः ।
माघे.-I. 15.
न यावदेतावुदपश्यदुस्थिती
जनस्तुषारामनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनि
चिरन्तनस्तावदभिन्यवीविशत् ।। 1434 !! चिरन्तनः पुराणः । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 441. पुराभवं पुरातनम् । ट्युः ।
रघुवंशे--I. 20.
तस्य संवृतमन्त्रस्य गूढाकारेजितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ।। 1435 ॥ प्राग्भवाः प्राक्तनाः।
अस्मिन्नेव ग्रन्थे श्लो० 695. सदा भवः सनातनः नित्यः ।
भट्टिकाव्ये-VI. 13.
इदं नक्तन्तनं दाम पौष्पमेतद्दिवातनम् ।
शुचेवोद्दध्य शाखायां प्रन्लायति तया विना ॥ 1436 ।। मतं भवं नक्तन्तनम् । दिवा भवं दिवातनम् ।