SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४५८ पाणिनिसूत्रव्याख्या १३९० | सर्वत्राणू च तलोपश्च । ( ४.३.२२ ) हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात् पक्षे ऋत्वण । हैमनम् हैमन्तम् । अस्मिन्नेव ग्रन्थे श्लो० 67. हेमन्ते भव: हैमनः । हेमन्तशब्दाच्छैषिकोऽण् तकारलोपश्च । माघे—VI, 77. कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोषितेन । प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन ॥ 1432 ॥ हेमन्ते भवा हैमन्यः । हेमन्तशब्दादण् । तकारलोपश्च । ' टिड्ढा ' (सू. 470 ) इति ङीप् । १३९१ । सायञ्चिरम्प्राह्नेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च । ( ४, ३. २३ ) सायमित्यादिभ्यश्चतुभ्र्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तः, तयोस्तु च । तुटः प्रागनादेशः । सायन्तनम् । चिरन्तनम् । प्राप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् | दिवातनम् । वा० । चिरपरुत्परारिभ्यस्त्नो वक्तव्यः । ( 2842.) चिरत्नम् । परुनम् । परारिलम् । अन्तिमम् । वा॰ । अग्रादिपश्चाड्डिमच् । ( 2844.) अग्रिमम् । आदिमम् । पश्चिमम् । वा० । अन्ताच्च । ( 2845.)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy