________________
জিহ किरातार्जुनीये-IX. 11.
औषसातपस्यादपलीन वासरच्छविविरामपटीयः ।
सन्निपत्य शनकैरिव निम्नादन्धकारमुवाप समानि !! 1428 || . औषसः । पूर्ववत् ।
१३८८ । प्रावृष एण्यः । (४. ३. १७) इत्येण्यप्रत्ययः । रघुवंशे-I. 36.
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ ।
प्रावृषेण्यं पयोवाह. विद्युदैरावताविव ।। 1429 ॥ प्रावृषि भवः : प्रावृषेण्यः । एण्यप्रत्ययः । 'प्रावृषष्ठम्' (रु. 1394 ) इति लुप् । प्रावृषि जातः प्रावृषिकः ।
१३८९ । वर्षाभ्यष्ठक् । (४. ३. १८)
वर्षासु साधु वार्षिक वासः । 'कालमत्साधुपुत्रप्यत्पच्यमानेषु' (सू. 1418) इति साध्वर्थे ।
रघुवंशे-IV, 16. . वार्षिक सञ्जहारेन्द्रो धनुर्जत्रं रघुर्दधौ ।
प्रजार्थसाधने तो हि: पर्यायोक्तकार्मुको ।। 1430॥ वर्षासु भवं वार्षिकम् । ठक् ।
रघुवंशे-XIL 25.
प्रययावातिथेयेषु वसन् ऋषिकुलेषु सः ।
दक्षिणां दिशभूक्षेषु वार्षिकेष्विव भास्करः ।। 1481 ।। वर्षासु भवानि वार्षिकाणि । ठक् ।