________________
पाणिनिलूनव्याख्या
भट्टिकाव्ये--XII. 7.
दौवारिकाभ्याहतशक्रदृतं
सोपायनोपस्थितलोकपालम् । साशङ्कभीष्माप्तविशन्निशाट
द्वारं ययौ रावणमन्दिरस्य ।। 1426 ।। दौवारिकः ।
अस्मिन्नेव ग्रन्थे श्लो० 478. श्वो भवा विद्यमाना शौवस्तिकाः । श्वसस्तुट् च ' (सू. 1385.) इति ठजि तुडागमः । अनेन एजागमः ।
अस्मिन्नेव ग्रन्थे श्लो० 1239. शुन इव पदमस्येति श्वापदो व्याघ्रः । 'अन्येषामपि ' (सू. 3539) इति दीर्घ इति व्याख्या । तन्न। 'शुनो दन्त (वा. 5049, सू. 1049 ) इति दीर्घः । 'तस्येदम् ' (सू. 1500 ) इत्यणि अनेन एजागमः शौवापदम् । ‘पदान्तस्यान्यतरस्याम् ' (सू. 1561 ) इत्यैज्वा ।
१३८७ । सन्धिवेलायतुनक्षत्रेभ्योऽण् । (४. ३. १६)
सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलादिः४. ६७. सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । माधे-LX. 16.
अथ सान्द्रसान्ध्यकिरणारुणितं
हरिहेतिहूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिदल
हृदयास्त्रुतासृगनुलिप्तमिव ।। 1427 ॥ सान्ध्याः सन्ध्यायां भवाः । अण् । अस्मिन्नेव ग्रन्थे श्लो० 1422. शरदि भवशारदः । ऋत्वम् ।
अस्मिन्नेव अन्ये लो 5 1421. उपसि भवः औषसः । योगविभागादण् । अन्यथा कालाहञ् स्यात् ।