________________
४६०
पाणिनिसूत्रव्याख्या कुमारसंभवे-IV. 46.
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयान्बभूव ।
शशिन इव दिवातनस्य रेखा किरणपरिक्षयधूसरा प्रदोषम् ।। 1437 ॥ दिवातनस्य । पूर्ववत् । रघुवंशे--XIII. 76.
भूयस्ततो रघुपतिर्विलसत्पताक___ मध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्य
स्तारापतिस्तरलविद्युदिवाभ्रबृन्दम् ।। 1438 ॥ . दोषा भव दोषातनम् । भट्टिकाव्ये---VII. 51.
उदकशतबलिं कोट्या सुषेण पश्चिमां उथा ।
दिशं प्रास्थापयंदाजा वानराणां कृतत्वरः ।। 1439 ॥ पश्चाद्भवां पश्चिमाम् । डिमच् । चयूभारते-I. 4.
ग्रीष्मेषु शीतकरकान्तकृतोदरासु
यद्गोपुराग्रिमदरीषु पथागतस्य । विश्राम्यतो रविहयस्य विलम्बनेषु
चिहं तदीयदिनसन्ततिदीर्घभावः ॥ 1440 || .. अग्रिमाः। चम्पूमारते-IV. 13.
ग. तत्र नानाजनपदमेदिनीवल्लभमल्लमकुटमणिकिरणपल्लविते यज्ञवाटे त्रिपथगापृथातनूजाभ्यां नियुक्तो वैमात्रातृभिर्जतुभवनवनसवनेषु पृथक्पृथगाराधितया स्वेनाप्यातिथ्याय निमन्ञ्यमाणेनं चीतिहोतेणेव ज्वलता हेमपात्रेण परिष्क्रियमाणपाणितलस्सहदेवः निखिलभक्तजनकृत्यनिर्वहणभारेणेव निलावयव सभ्येलोकालोचनपश्मयुगलपक्ति