________________
शैषिकप्रकरणम्
१९३७८ । मध्यान्मः । ( ४.३.८ )
मध्यमः ।
भट्टिकाव्ये - VIII. 87.
शतसाहस्रमारक्षं मध्यमं रक्षसां कपिः ।
ददर्श यत्कृतान्तोऽपि प्रियेतासाद्य भीषणम् || 1418 !
मध्ये भवं मध्यमम् ।
अस्मिन्नेव ग्रन्थे लो० 1140. मध्यमपुत्रः ।
१६८० | द्वीपादनुसमुद्रं यज । ( ४.३.२० )
समुद्रस्य समीपे यो द्वीपस्तद्विषया द्वीपशब्दात् यन् स्यात् । द्वैण्यम् । द्वैप्या | अस्मिन्नेव प्रन्ये श्लो० 1892 द्वैप्यान् समुद्रद्वीपवासिनः पोतवणिजः ।
१३८१ । कालाट्ठञ् । ( ४. ३. ११ )
कालवाचिभ्यष्ठञ् स्यात् । मासिकम् | सांवत्सरिकम | सार्वभातिकः । कथं तर्हि 'शार्वरस्य तमसो निषिद्धये ' इति (कुमारसंभवे --- VIII. 58 ) कालिदासः,
E
अनुदितोष राग' इति (किरातार्जुनीये - IX 8 ) भारविः; समानकालीनं, प्राक्कालीनमित्यादि च । अप्रभ्रंशा एवैत इति प्रामाणिका: । ' तंत्र जातः (सू. 1393. ) इति यावत्का लाधिकारः ।
"
(ग. सू.) आपदादिपूर्वपदात्कालान्तात् । 74.
બ
इति ठञ्ञिठौ । आपत्कालिकी आपत्कालिका ।
अनर्घराघवे -- II. 10.
----
ग----- ये प्राभातिकी भुवनस्य लक्ष्मीः ॥ 1419 |
प्राभातिकी, प्रभावभवा ।