________________
पाणिनिसूत्रव्याख्या चम्यूमारते-VII. 49. वीणामुनीन्द्रो विजयस्य युद्धं
नीरन्ध्रभावेन निरीक्षमाणः । आनन्दजैरश्रुभिरेव चके
हस्तार्पितैराहिककृत्यमझे ॥ 1420 ।। अहि भवमाह्निकम् । किरातार्जुनीये-IX. 8.
आकुलश्चलपतत्त्रिकुलानामारवैरनुदितोषसरागः ।
आययावहरिदश्वविपाण्डुस्तुत्यतां दिनमुखेन दिनान्तः ॥ 1421 ॥ उषसि भवः औषसः । 'सन्धिवेला' (सू. 1387 ) इत्यादिना योगविभागादण् । अन्यथा कालाठ्ठञ् स्यात् । 'आकालिकडाद्यन्तवचने' (सू. 1777) इत्याकालिकट । समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याकालादेशः । आशुविनाशीत्यर्थः।
अस्मिन्नेव ग्रन्थे श्लो० 78, समानकालावाद्यन्तावस्यामाकालिकीम् । अकालभवत्वात् उत्पत्त्यनतरं विनाशिनीत्यर्थः । समानकालाट्ठञ् ।
अस्मिन्नेव ग्रन्थे श्लो० 79. पूर्ववत् । नैषधे--I. 21.
अघारि पझेषु तदध्रिणा घृणा
क्क तच्छयच्छायलवोऽपि पल्लवे । तदास्य दास्येऽपि गतोऽधिकारितां
न शारदः पार्विकशर्वरीश्वरः ।। 1422 ॥ पर्वणि भवः पार्विकः । ' नस्तद्धिते' (. 679.) इति टिलोपः ।
१३८४ । निशाप्रदोषाभ्यां च । (४. ३. १४) वा ठञ् स्यात् । नैशिकम् नैशम् । प्रादोषिकम् प्रादोषम् । अनर्घराघवे--VII. 72.
प्राचीनाचलचुम्बिचन्द्रमणिभिनिव्यूढपाद्यं निजै
निर्यासैरुड्डुभिर्निजेन वपुषा दत्ताघलाजाञ्जलि ।