________________
६५२
पाणिनिसूनव्याख्या भट्टिकाव्ये-III. 32.
लेतन्मतं मत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत् । उद्वाश्यमानः पितरं सरामं लुठयन् सशोको भुवि रोरुदावान् ।। 1418 ॥
स एषां ग्रामणीः' (सू. 1878.)
- अहं ग्रामणीरस्य मत्कं मकर्तृकम् । इति कन्प्रत्ययः । अनेन मदादेशः ।
भट्टिकाव्ये-VIII. 16.
संशृणुष्व कपे मत्कैस्सङ्गच्छख धनैः शुभैः ।
समारन्त ममाभीष्टास्सङ्कल्यास्त्वय्युपागते ।। 1414 ।। अहमेषां ग्रामणी: मत्कानि । मत्स्वामिकानीत्यर्थः । पूर्ववत् ।
चम्पूरामायणे-IV. 17.
सन्त्रस्य पूर्वममुतस्तव बन्धुरेष
भेजे यथादिमकुतोभयमृश्यमूकम् । भर्ता ममायमपि राम शरैरभेद्य
प्राप्तो मदीयहृदयच्छलमद्विदुर्गम् ॥ 1415 ।। मदीयम् । भट्टिकाव्ये-XVIII. 26.
दिशो व्यश्नुवते दृप्तास्त्वत्कृतां जहति स्थितिम् । ।
क्षोदयन्ति च नः क्षुद्रा हसन्तस्त्वां विपद्गतम् ॥ 1416 ॥ त्वत्कृताम्, त्वदादेशः।
भट्टिकाव्ये-IX. 125.
मन्नियोगाच मारीचः पलायनपरायणः ।
युयुत्सारहितो राम ममारापहरन्वने ॥ 1417 ॥ मन्नियोगात् । अमदो मदादेशः ।