________________
शैषिकप्रकरणम्
चम्पूभारते-V. 25.
प्रीतेन तेन पुनरप्यधिपः कपीना__ मूचे तथा युधि भवानवुनार्थयेऽहम् । कर्तुं तनु नयनयोः पथि तावकीनां
तत्तादृशीमुदधिपत्वलतासवित्रीम् ॥ 1409 15 तावकीनां तव सम्बन्धिनीम् । 'युष्मदस्मदोः' (मू. 1370 ) इति खन अनेन तवकादेशः । खस्येनादेशश्च ।
चम्पूरामायणे--V. 51.
बाहुचन्दननिषङ्गकोटरादुद्धतो रघुपतेश्शरोरगः ।
प्राणवायुमविनीत तावकं काल्यापनमपास्य पास्यति ।। 1417 ! तवार्य तावकः । युष्मदस्मदोः (सू. 1370) रित्यण । अनेन तवकादेशः । नैषधे-II. 52.
न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातितानवलम्वे किमु मादृशेऽपि सा | 1431 ।। तवेयं तावकी । ' युष्मदस्मदोः' (सू. 1870) इत्यणि ङीप् ! चम्पूरामायणे-II. 29.
मा भूत्त्वपदपद्मयोररुणिमा कान्तारसञ्चारतः
पाणी पाटलिमा मनाक् प्रसरतु ज्याकर्षणादेव मे । कैकेयीपरिभूततातवचने नम्रो भवान्मा स्म भूत्
किञ्चिन्मामकमार्य शौर्यजलधे ननं धनुर्वर्तताम् ।। 1412 ।। ममेदं मामकम् । 'युष्मदस्मदोः' (सू. 1370) इत्यण । अनेन ममकादेशः ।
१३७३ । प्रत्ययोत्तरपदयोश्च । (७. २. ९८) इति त्वमौ । मदादेशः । त्वदादेशः । त्वदीयः । मदीयः । त्वत्पुत्रः । मत्पुत्रः ।