SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या रघुवंशे- IV. 77. तत्र जन्य रघोपोरं पर्वतीय गणैरभूत् । नाराचक्षेपणीयाश्मनिप्पेषोत्पतितानलम् ।। 1407 ॥ पर्वते भवैः पर्वतीयः । पूर्ववत् । १३६८ । विभाषाऽमनुष्ये । (४. २. १४४) मनुष्वभिलेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीयानि पार्वतानि वा फलानि । १३७० । युष्मदसदोरन्यतरस्यां खञ्च । (४. ३. १) चाच्छः । पक्षेऽण । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः । 'त्यदादीनि च ' (सू. 1336 ) इति वृद्धसंज्ञा । वृद्धाच्छः । १३७१ । तस्मिन्नणि च युष्माकासाकौ । (४. ३. २) युष्मदस्मदोरेताबादेशौ स्तः खब्यणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आमाकः । माघ---VIII. 50. आसाकी युवतिदृशामसौ तनोति छायैव श्रियमनपायिनी किमेभिः । मत्वैव स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि !! 1408 ।। अस्माकमियमामाकी अस्मदीया । 'युष्मदस्मदोः' (सू. 1370) इत्यण् । अनेनास्माकादेशः । 'टिड्ढाण् (सू. 470 ) इति ङीप् । १३७२ । तवकममकावेकवचने । (४. ३.३) एकार्थवाचिनोर्युष्मदस्मदोस्तवकममको स्तः खञ्यणि च । तावकीनः तावकः । मामकीनः मामकः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy