________________
ইমিজ
किरातार्जुनीये-VII. 14.
संवाता मुहुरनिलेन नीयमाने
दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं
संजज्ञे युतकमिवान्तरीयमूवों: ॥ 1404 |
अन्तरे भवमन्तरीयम् अर्थोऽशुकम् । माघे-IV. 5. क्वचिजलापायविपाण्डुराणि
धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणि बिभ्राणमुमाङ्गसङ्ग
विभक्तभस्मानमिव स्मरारिम् ॥ 1405 ॥ उत्तरीयम् ।
१३६४ । राज्ञः क च । (४. २. १४०)
वृद्धत्वाच्छे सिद्ध तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयन् ।।
१३६७ । पर्वताच्च । (४. २. १४३) पर्वतीयः । माघे--XII. 51.
शैलाधिरोहाभ्यसनाधिकोद्धरैः
पयोधरैरामलकीवनाश्रिताः । तं पर्वतीयप्रमदाश्चचायिरे
विकासविस्फारितविभ्रमेक्षणाः ॥ 1406 ॥ पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । छप्रत्ययः
67