________________
शैषिकप्रकरणम्
माघे-I.26.. हरत्यधं सम्प्रति हेतुरेप्यतः
शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरमाज भवदीयदर्शनं
व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। 1401 || भवदीयम् ।
१३३८ । एङ् प्राचां देशे । (१. १. ७५)
वा० । वा नामधेयस्य वृद्धसंज्ञा वक्तव्या । (576.) देवदत्तः । देवदत्तीयः।
१३३९ । भवतष्ठक्छसौ । (४. २. ११५) वृद्धाद्भवत एतौ स्तः । भावत्कः । भवदीयः । 'ठक्छसोश्च' (वा. 3929, सू. 836) इति पुंवद्भावः ।
अस्मिन्नव अन्थे श्लो० 434. भवत्या इंदं भावत्कं भवदीयम् । ठकि पुंकद्भावः । 'इसस' (सू. 1221 ) इति कः ।
१३४० । काश्यादिभ्यष्ठजिठौ । (४. २. ११६) (ग. स.)। आपदादिपूर्वपदात्कालान्तात् । 74. आपत्कालिका । काश्यादिः-४. ६३. आपदादिः-४. ६३.
१३५३ । अरण्यान्मनुष्ये । (४. २. १२९) वुन् । ' भरण्याण्णः' (वा. 2782. सू. 1325 ) इत्यस्यापवादः । वा० । पथ्यध्यायन्यायविहारमनुष्यहस्तिप्विति वाच्यम् । ( 2819.) भारण्यकः पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा ।
वा० । वा गोमयेषु । (2820.) आरण्यका आरण्या वा गोमयाः।