________________
पाणिनिसूनव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 632. राजव्रजीयैः राजसङ्घसम्बन्धिभिः । चम्पूभारते-I. 11.
ग--या खलु पुरा कुरुधराधिपापराधसमेधितक्रोधेन हलधरेण निजायुधेन हटाकर्षणशिक्षया समुत्क्षिप्तदक्षिण क्षितिभागा तदीयभुवनभूषणायमानां भोगवतीमात्मना विजेतुं भागीरथीपाथःपथेनावतीर्य कृतप्रस्थानेवाद्यापि परिदृश्यते ।! 1997 ॥
तस्येदं तदीयम् । नैवधे-II. 108.
भ्रमणर यविकीर्णस्वर्णभासा खगेन
कचन पतनयोग्य देशमन्विष्यताधः । मुखविधुमदसीयं सेवितुं लम्बमानः
शशिपरिघिरिवोच्चैर्मण्डलस्तेन तेने ॥ 1398 ।। अमुष्या अयं अदसीयः । वृद्धाच्छः । त्यदादिवृद्धसंज्ञा । अस्मिन्नेव अन्थे श्लो० 461. अस्माकमिदमसदीयम् । चम्पूरामायणे- IV. 1.
मलयगिरिचरोऽयं मन्मथाधोरणाज्ञा
मथितपथिकवर्गो मारुतव्यालहस्ती। विरचयति मदीये शैत्यसौरभ्यमान्यै
स्त्रिविधमदसमृद्धो मानसे वप्रलीलाम् ॥ 1399 ।। ममेदं मदीयम् ।
चम्पूरामायणे-II. 79.
खतस्सिद्धं यस्मिन्नितरदुरवाप विजयते
सुमित्रापुत्रत्वादपि जगति रामानुजपदम् । यदीयाक्षिद्वन्द्वप्रतिनिधि भवेदम्बुजयुग
निशीथे निर्निद्रं यदि तमपि साक्षादकृत सः ॥ 1400 ॥ यदीयम् ।