________________
४३२
पाणिनिसूनव्याख्या स्थानां समूहो रथ्या । समूहाथै यत् । अस्मिन्नेव ग्रन्थे लो० 1386. रथ्या ।
१२६० । इनित्रकव्यचश्च । (४. २. ५१) खलगोरथेभ्यः क्रमादेते स्युः । खलिनी । गोत्रा । स्थकट्या ।
वा० । खलादिभ्य इनिर्वक्तव्यः । ( 2736.) डाकिनी । कुटुम्बिनी । खलादिः-४. ३०. 'त्रिषु द्वैपादयो रथ्या स्थकट्या रथवजे' II. viii. 56. इत्यमरः । गोत्रा गोनिचये भूम्याम् । इति मेदिनी।
चम्पूभारते-VI. 20.
ग~अनन्तरं स्ववशा पाञ्चालसुता भृशमाहतकङ्कतमतिरसोत्पादनचणमधिकशो. भनाटनपाटवमाश्रितगन्धर्वकुलमाकलितगोलान्तरं पञ्चधा रूपमुदञ्चयन्ती पञ्चापि पतीननुयातवती ।। 1369 ॥
गोला गोबृन्दः। चम्यूभारते-~-VII. 1.
आरूढे द्याभबिम्वे परेयुः
साक सैन्यैः सार्वभौमः कुरूणाम् । पार्थादेकां बिभ्रदाहृत्य गोत्रा
___ मात्स्यादन्यां तत्पुरं इतुमागात् ॥ 1870 ॥ गोता।
१२६२ । राजन्यादिभ्यो वुञ् । (४. २. ५३) राजन्यक; । राजन्यादि:-४. ३१. १२६३ । भौरिक्यायैषुकार्यादिभ्यो विधल्भक्तलौ । (४. २. ५४)
भौरिकीणां विषयो देशः भौरिकिविधम् । ऐषुकारिभक्तम् । भौरिक्यादिः४. ३२. ऐषुकार्यादि:-१, ३३.