________________
मट्टिकाव्ये - III. 1.
चातुरर्थिकमकरणम्
गतो वन वो भवितेति रामः शोकेन देहे जनता तिमालम् ।
धीरास्तु तत्र च्युतमन्यवोऽन्ये
दधुः कुमारानुगमे मनांसि || 1352 ||
जनानां समूहो जनता । समूहार्थे तल्प्रत्ययः ।
माघे—XII. 31.
तैर्वैजयन्तीवनराजिराजिभिः गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनता नदीशतैर्भुवो बरन्तरयांबभूविरे ॥ 1858 ॥
जनता ।
माघे - V. 14.
छायामपास्य महतीमपि वर्तमाना
मागामिनीं जगृहिरे जनतास्तरूणाम् । सर्वो हि नोपगतमप्यपचीयमानं
वर्धिष्णुमा श्रयमनागतमप्युपैति ॥ 1854 ॥
जनता, पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 629. जनता । पूर्ववत् ।
भट्टिकाव्ये - III. 23.
तास्सान्त्वयन्ती भरतप्रतीक्षा
तं बन्धुता न्यक्षिपदाशु तैले । दूतांश्च राजात्मजमानिनीषून्
प्रास्थापयन्मन्त्रिमतेन यूनः ॥ 1355 ॥
बन्धुता बन्धुसमूहः । सामूहिकस्तल् ।
४२७