________________
पाणिनिसूत्रव्याख्या
१२४८ । केदारायञ् च (४. २. ४०)
चाद्वञ् । कैदार्यम् केदारकम् ।
वा० ! गणिकाया यनिति वक्तव्यम् । ( 2719.) गाणिक्यम् । 'केदारकं स्यात्तैदार्य क्षेत्र केदारिक गणे' IT. ix. 11. 'गणिकादेस्तु गाणिक्यम् ' II. vi. 22. इत्यमरः ।
१२४९ । ठकवचितश्च । ( ४. २. ४१)
चाकेदारादपि । कवचिनां समूहः कावचिकन् । कैदारिकम् ।
माधे-XII. 42.
स त्रीहिणां यावदपासितुं गताः
शुकान्मृगैस्तावदुपद्रुतश्रियाम् । कैदारिकाणामभितस्समाकुलाः
सहासमालोकयति स्म गोपिकाः ।। 1351 ।। कैदारिकाणां क्षेत्रसमूहानाम् ! चकाराट्ठञ् ।
१२५० । ब्राह्मणमाणववाडवायत् । (४. २. ४२)
ब्रामण्यम् | माणव्यम् । बाडव्यम् ।
वा० । पृष्ठादुपसङ्ख्यानम् । ( 2720.)
पृष्ठयम्।
१२५१ । ग्रामजनबन्धुभ्यस्तल् (४. २. ४३) ग्रामता । जनता । बन्धुता।
वा० । गजसहायाभ्यां चेति वक्तव्यम् । (2721.) गजता । सहायता ।