________________
माघे – II. 114.
चातुरर्थिकप्रकरणम्
उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम् । राजन्यकान्युपायज्ञैरेकार्थानि चनत्र || 1846 ||
रघुवंशे - I. 60.
राजन्यकानि ।
अस्मिन्नेव ग्रन्थे हो० 1088. राजन्यकम् ।
अनर्घराघवे - IV. 7.
ग -अहो ! यतः प्रभृति वैदेहीवरणाय प्रहितेन पुरोधसा कथ्यमानं ककुत्स्थकुलकुमारस्य मानुष्यकातिशयमशृणवम्, ततः प्रभृति कष्टां दशामनुभवामि ||1347 योपधाहुन् । मानुष्यकं मनुष्यकर्म ।
४२२
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे !
दैवीनां मानुषीणाञ्च प्रतिकर्ता स्वमापदाम् || 1848
मनुष्येभ्य आगतानां मानुषीणाम् । ' तव आगत' ( सू. 1453 ) इत्यगि डी । न प्रकृतिभावः ।
नैषधे – I. 77.
फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवाववेपिते । स्थितैस्समाधाय महर्षिवार्धका
द्वने तदातिथ्यमशिक्षि शाखिभिः ॥ 1849 | महर्षीणां वार्धकात् वृद्धसमूहात् । अनेन समूहार्थे वुञ् । रघुवंशे - I. 8.
शैशवेऽभ्यस्त विद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् || 1350 ॥
वृद्धस्य भावो वाधकम् वृद्धत्वम् । 'द्वन्द्वमनोज्ञादिभ्यश्च' ( सू. 1798 ) इति भावार्थे वुञ् ।
54