________________
पाणिनिसूत्रव्याख्या
पुलोम्नोऽपत्यं स्त्री पौलोमी । ' तस्यापत्यम् ' ( 1088 ) इत्यण् । ङीप् । अनेन
न प्रकृतिभावः ।
अनघेराघवे - VI. 24.
एताः पश्य पलादपतनभुवः सौत्रामणीनां दृशामाम्भोभिर देवमातृक गृहारामाभिरामश्रियः । एतासु प्रतिघातिविक्रमकथोपालम्भवैतण्डिकैः
क्लृप्तेन्द्रध्वजिनीजयानुकृतिभिर्डिम्मैरपि क्रीडितम् ॥ 1298 ॥
सौतामणीनाम् । 'तस्येदम् ' ( सू. 1088 ) इत्यण् । अतः प्रकृतिभावः । अस्मिन्नव ग्रन्थे श्लो० 1295. भास्मनैः भस्ममयैः । वैकारिकोऽण् । अतः
1
प्रकृतिभावः ।
अस्मिन्नव ग्रन्थे लो० 59. चर्मणो विकारे चार्मिणे ' तस्य विकारः ' (सू. 1514 ) इत्यण् । कोशे टिलोपो वक्तव्य इति नियमात्कोशादन्यत्र टिलोपाभावः ।
११५८ | ब्राह्मोऽजातौ । ( ६.४. १७१ )
1
योग विभागोऽल कर्तव्यः । ब्राह्म इति निपात्यते ऽनपत्येऽणि । ब्राह्मं हविः । ब्रह्मणोऽपत्यं ब्राह्मणः ।
भट्टिकाव्ये—IV. 4.
आहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः ।
अध्यासितं श्रिया ब्राह्मया शरणं शरणैषिणाम् ॥ 1299 ॥
ब्राह्मया ब्रह्मसम्बन्धिन्या ' तस्येदम् ' ( सू. 1500 ) इत्यण् । ङीप् । अजाताविति व्यतिरिक्तार्थे निपातनाट्टिलोपः ।
चम्पूरामायणे - III. 12.
प्रभामिवाक तमसां निहन्त्री
ब्राह्मीं दधानं नियमेन लक्ष्मीम् ।