________________
ভাসক।
तपोनिधि शौर्यनिधिः प्रपन्नः
स्वनाम सङ्कीर्त्य ननान रामः 11 13001 ब्राहीम् । पूर्ववत् ।
अनवराघवे-I. 22.
यः क्षत्रदेहं परितक्ष्य रहै
स्तपोमयैत्राह्मणमुच्चकार : परोरजोनिः स्वगुगैरगाधः
स गाधिपुत्रोऽपि गृहानुपैति ।। 130 1 !!
ब्राह्मणं देहं ब्राह्मण जातिसम्बद्धम् । ब्राझगमिति बालिपरम् । तेन ब्रह्मण इदं ब्राझगमित्यणि कृते नमोऽजातो. सू. 1158) इति हिलोपो न भवति । यद्यपि विशुद्धमातापितृयोनिजत्वं ब्राह्मणत्वमिति सर्वतान्त्रिकसिद्धं , तथापि क्षत्रियजातस्य परशुरामस्य योजनगन्धिजातस्य व्यासस्य च ब्राह्मण्यं तपःप्रभावाद्यथा, तथास्यापीत्यदोषः ।
११५९ । औक्षमनपत्ये । (६. ४. १७३) अगि टिलोपो निपात्यते। औक्ष पदम् ! अनपत्ये किम् : रश्शोऽपत्यमौक्ष्णः ।
११६१ । क्षत्वाद्धः । (४. १. १३८ ) क्षन्त्रियः जानावित्येव । क्षानिरन्थः ।
११६२ । कुलात्खः । ( ४. १. १३९) कुलीनः । तदन्तादपि । आढ्यकुलीनः । ११६३ । अपूर्वपदादन्यतरस्यां यड्डकौ । (४. १. १४०)
कुलादित्येव । पक्षे खः । कुश्यः कौलेयकः कुलीनः । पदग्रहणं किम् । बहुकुल्यः बाहुकुलेयकः बहुकुलीनः ।
अस्मिन्नेव ग्रन्थे श्लो० 66. कुल्याम् । अर्थेि साध्वर्थे वा यदिति मलिनाथः । 'तत्र साधुः' (सू. 1650) इति यदिति जयमङ्गलः ।