________________
४०३
अपत्याधिकारप्रकरणम् महिपरिकरभाजो भास्मनैरङ्गरागै
रधिगतधवलिन्नः शूलपाणेरभिरल्याम् ।। 1295 ।।
भास्मनः भस्ममयः । वैकारिकोऽणप्रत्ययः । अनेन प्रकृतिभावात् 'नस्तद्धिते' (सू. 679) इति नास्ति टिलोपः ।
११५६ । संयोगादिश्च । (६. ४. १६६) इन् प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ।
११५७ । न मपूर्वोऽपत्येऽवर्मणः (६. ४. १७०)
मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि ! भादसामः । मपूर्वः किम् । सौत्वनः । अपत्ये किम् । चर्मणा परिवृतश्चार्मणो रथः ! अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ।
वा० । वा हितनाम्न इति वाच्यम् । ( 4215.) हितनानोऽपत्य हैतनामः हैतनामनः ।
चम्पूरामायणे-III, 12.
ग-ततः परमहर्षेण महर्षियः प्रणीतानिराशीनिस्सह मुरशासनशरासन सरसिजास्त्रं सौतामणं तूणीरयुग्मं रुक्ममयकोश खनञ्च प्रतिगृह्य तदाज्ञया गोदावर्यास्तटनिकटप्रकटितां पञ्चवटीमसेवन ।। 1296 ।।
सुत्राम्ण इदं सौतामणम् । तस्येदम् ' (सू. 1500 ) इत्यण् । 'तस्यापत्यम्। (सू. 1088) इत्यणि न प्रकृतिभावः ।
अनघराघवे-II. 65. दिकूलङ्कषकीर्तिधौतवियतो निर्व्याजवीयोद्धता
स्ते यूयं रघवः प्रसिद्धमहसो यः सोऽपि देवाधिपः । बिभ्राणैरसुराधिराजविजयक्रीडानिदानं धनुः
पौलोमीकुचपत्रभरचनाचातुर्यमध्यापितः ।। 1297 ।।