________________
যালিলি লজ্জা भट्टिकाव्ये--IT, 44. क्षिप्रं ततोऽन्यतुरड्यावी
यविष्ठवद्धतनोऽपि राजा ! आख्यायकेभ्यः श्रुतसूनुवृति
रम्लानयानो मिथिलामगच्छत् ॥ 1292 ।। अध्यानमलं गामिन्यः अनन्याः । शीघ्रगा इत्यर्थः । ' अध्वनो यत्खौ (सू. 1817) इति यत्प्रत्ययः । अनेन प्रकृतिभावान्न टिलोपः । रघुवंशे-IV. 1.
स राज्यं गुरुणा दत्तं प्रतिपद्याधिक बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः !! 1293 ।। राज्ञः कर्म राज्यं प्रजापरिपालनात्मकम् । 'पत्यन्तपुरोहितादिभ्यो यत् । (सु. 1793) इति यत् । 'अभावकर्मणोः' इति निषेधान्न प्रकृतिभावः ।
११५५ । अन् । ( ६. ४. १६७) अणि अन् प्रकृत्या स्यादभावकर्मणोः । माधे-IX. 25.
वसुधान्तनिस्सृतमिवाहिपतेः
पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः
___ ककुभं समस्कुरुत माधवनीम् ॥ 1294 ॥ ____ मघोनः इमां माघवनीम् । मघवन् अन्नन्तः । 'तस्येदम्' (सू. 1500) इत्यण् । प्रकृतिभावः । 'आत्मावानौ खे' (सू. 1671) इति प्रकृतिभावे आत्मनीनम् । 'तक्षनलोपश्च' (ग. सू. 81. सू. 1310) तक्षकीयः । माषे-IV. 65.
नवनगवनरेखाश्याममध्याभिराभिः
स्फटिककटकभूमिर्नाटयत्येष शैलः ।