________________
समासाश्रयविधिप्रकरणम्
३८३ सुट तलोपश्च । तस्करः । बृहस्पतिः ।
वा० । प्रायस्य चितिचित्तयोः । (3714.) प्रायश्चित्तिः प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयन् । पारस्करादिः
-६. २. अस्मिन्नेव ग्रन्थे श्लो० 1019. परश्शता असंख्या इत्यर्थः । पञ्चमीति योगविभागात्समासः । राजदन्तादित्वात् उपसर्जनस्यापि शतशब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः।
अस्मिन्नेव ग्रन्थे श्लो० 1067. वनस्पतीनां वृक्षाणाम् । पारस्करादित्वामुडागमः। भट्टिकाव्ये--VI. 145.
अस्य निर्वयं कर्तव्यं सुग्रीवो राघवाज्ञया ।
किष्किन्धाद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम् ।। 1254 || किष्किन्धा । पारकरादित्वात्सुडागमः । मस्मिन्नेव ग्रन्थे श्लो० 1253. तस्करः । रघुवंशे--I. 27.
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ।। 1955 ॥ अस्मिन्नव ग्रन्थे श्लो० 1054. इन्द्रश्च बृहस्पतिश्च इन्द्राबृहस्पती । 'देवताद्वन्द्वे च' (सू. 922.) इत्यानङ्। इन्द्राबृहस्पती देवते अस्य ऐन्द्राबार्हस्पत्यम् । 'देवताद्वन्द्वे च' (सू. 1239.) इत्युभयपदवृद्धिः ।
तुंकाममनसोरपीति मकारलोपः । चम्पूभारते-II. 29.
रुधिरं पातुकामेन तेन वो हन्तुमीरिता ।
मघरं पातुकामाहमस्मि ते रूपसम्पदा ।। 1256 ॥ पातुकामेन । पातुकामा।
॥ इति समासाश्रयविधिपकरणम् ।।