________________
।। अथ तद्धिताधिकार प्रकरणम् ।।
१०७३ । प्रादीव्यतोऽण् । (४. १.८३) 'तेन दीव्यति' (मू. 1550) इत्यतः प्रागणधिक्रियते ।
१०७४ । अश्वपत्यादिभ्यश्च । (४. १. ८४) एभ्योऽण् स्यात्प्रान्दीव्यतीयेप्वर्थेषु । वक्ष्यमाणस्य ण्यस्याएवादः। अश्वपत्यादिः
-- ४. ८. १०७५ । तद्धितेष्वचामादेः । (७. २. ११७) निति णिति च तद्धिते परे अचामादेरचो वृद्धिः स्यात् ।
१०७६ । किति च । (७. २. ११८) किति तद्धिते च तथा । अश्वपतेरपत्यादि आवपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव । १०७७ । दित्यदित्यादित्यपत्युत्तरपदाण्यः । (४. १. ८५)
दित्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेप्वर्थेषु ण्यः स्यात् । अशोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाचेति काशिकायाम् । याम्यः ,
वा० । पृथिव्या जानौ । (2554.) पार्थिवा पार्थिवी ।
___वा० । देवाद्यौ । ( 2565.) दैव्यम् दैवम् ।
वा० । बहिषष्टिलोपो यञ् च । ( 2556.)