________________
ধ্বংসাৰভিজহজ
३८१ १०६२ । आश्चर्यमनित्ये । (६. १. १४७.) अद्भुते सुट् ।
१०६३ वर्चस्केऽवस्करः । (६.१.१४८. ) कुत्सितं वर्षों वर्चस्कमन्नमलं, तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । चम्के किम् । अवकरः।
१०६४ । अपस्करो रथाङ्गम् । (६.१. १४९.) अपकरोऽन्यः ।
१०६५ । विष्किरः शकुनौ वा । (६. १. १५०.) पक्षे विकिरः । उत्तररामचरिते-II. 22.
कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन सम्पातिभि
धर्मत्रंसितबन्धनैः स्वकुसुभैरर्चन्ति गोदावरीम् । छायावस्क्रियमाणविकिरमुखस्याकृष्टकीटत्वचः
कूजत्कान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ।। 1251 ।। विष्किराणां पक्षिणाम् ।
१०६६ । प्रतिष्कशश्च कसः ( ६. १. १५२.) कश गतिशासनयोः इत्यस्य प्रतिपूर्वस्य पच द्यपि सुनिपात्यते षत्वञ्च { सहायः पुरोयायी वा प्रतिप्कश इत्युच्यते। कशेः किम् । प्रतिगतः कशां प्रतिकशोऽयः ।
१०६७ । प्रस्कण्यहरिश्चन्द्रावृषी । (६. १. १५३. ) ऋषो इति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः । १०६८ । मस्करमस्करिणौ वेणुपरित्राजकयोः । (६. १. १५४.)
मकरशब्दोऽयुत्पन्नः । तस्य सुडिनिश्च निपात्यते । वेणुरिति किम् । मकरो ग्राहः । मकरी समुद्रः ।