SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ पागनिसुलव्याख्या अस्मिन्नेव ग्रन्थे लो० 405. वर्षभोग्येणेति णत्वम् । १०५८ । कुस्तुम्बुरुणि जातिः । (६. १. १४३.) अत्र सुन्निपात्यते । कुम्तुम्बुरुधान्याकम् । क्लीवत्वमतन्त्रम् । १०५९ । अपरस्पः क्रियासातत्ये । ( ६. १. १४४.) मुनिपात्यते । अपरस्परास्साई गच्छन्ति । सततम विच्छेदेन गच्छन्तीत्यर्थः । १०६० । गोष्पदं सेवितासेवितप्रमाणेषु । (६. १. १४५.) सुट् सस्य षत्वञ्च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिस्सेवितो गोप्पदः । असेविते, अगोप्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । नैषधे-- I. 72. द्विषद्भिरेवास्य विलचिता दिशो यशोभिरेवाब्धिरकारि गोष्पदम् । इतीव धारामवधौर्य मण्डली क्रियाश्रियामण्डि तुरङ्गमैः स्थली ॥ 1249 ।। अस्य यशोभिरेवाब्धिः गोः पदं गोष्पदमकारि गोष्पदमात्रः कृतः । सुडागमषत्वयोनिपातः । चम्यूरामायणे--1V. 46. हे वीरा यूथनाथाः परिणतिपरुषः कार्य आसीद्विषादः ___ कस्मादस्माकमेतज्जलनिधितरणे शक्तिरेतावतीति । स्मृत्वा राज्ञः प्रतिज्ञामयमनिलसुतो लङ्घनायोन्मुखश्चे द्वेदः प्रादुर्भवेत्किं कथयतु पयसामास्पदे गोष्पदे वा ।। 1250 ।। १०६१ । आस्पदं प्रतिष्ठायाम् । (६. १. १४६.) इति सुनिपात्यते। मस्मिन्नेव ग्रन्थे श्लो० 1250. पयसामास्पदे ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy