________________
३४८
पाणिनिसूत्रव्याख्या नैषधे--VI. 80.
नैनं त्यज क्षीरधिमन्थनाद्यै
रस्यानुजायोद्गमितामरैः श्रीः । अस्मै विमथ्येक्षुरसोदमन्यां
श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥ 1155 ॥ इक्षुरस एवोदकं यस्य तम् इक्षुरसोदं नामाब्धिम् । संज्ञायामुदकस्योदादेशः । बम्पूरामायणे-VI. 15.
पश्येदानीमुदधिपरिखापालिता कुत्र लङ्का __वाचातीतः क नु वनचरादागतो दुर्विपाकः । कतुं नक्तञ्चरपरिभवं कापि मायेति शके
जाता सीता धरणितनया जानकी मैथिलीति ॥ 1156 ॥ उदकानि धोयन्तेऽस्मिन्नित्युदधिः समुद्रः। 'कर्मण्यधिकरणे च' (सू. 3271) इति किः।
९९६ । पेषवासवाहनधिषु च । (६. ३. ५८) उदपेष पिनष्टि । उदवासः उदवाहनः उदधिः घटः । समुद्रे तु पूर्वेण सिद्धम् । कुमारसंभवे-V. 26. निमाय सात्यन्तहिमोत्किरानिलाः
सहस्यरात्रीरूदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः ।
पुरो वियुक्त मिथुने कृपावती ।। 1157 ।। उदके वासः उदवासः । उदादेशः । किरातार्जुनीवे--XIV. 36.
अनादरोपात्तधृतैकसायक
जयेऽनुकूले सुहृदीव सस्पृहम् ।