SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ १४४ समालाश्रय विधिप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो० 1150. पादाभ्यां गच्छन्तीति एनाः । 'अन्येप्वपि दृश्यते । (सू. 3011 ) इति डः । हिमकाषीति चकारस्यानुक्तालमुखवार्थत्वाद्मोत्तरपदे पदादेशः । ९९४ ! वा घोषमिश्रशब्देषु । (६. ३. ५६) पादस्य पत् । पद्धोषः पादघोषः । पन्मिश्रः पादमिश्रः । यच्छब्दः पादशब्दः । वा० । निष्के चेति वक्तव्यम् । (8959.) पन्निष्कादि। ९९५ । उदकस्योदः संज्ञायाम् (६. ३. ५७) उदमेघः। वा० । उत्तरपदस्य चेति वक्तव्यम् । (3961.) क्षीरोदः । चम्पूरामयणे-II. 6. देवे स्थितेऽपि तनयं तव रामभद्र लोकः स्वयं भजतु नाम किमत्र चित्रम् । चन्द्रं विना तदुपलम्भनहेतुभूतं क्षीरोदमाश्रयति किं तृषितश्चकोरः ॥ 1153 ।। क्षीरमुदकं यस्य स क्षीरोदः । क्षीरसमुद्रः । उदादेशः । कुमारसंभवे-VII. 26. क्षीरोदवेलेव सफेनपुंजा पर्याप्तचन्द्रव शरत्रियामा। नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥ 1154 ।। क्षीरोदः पूर्ववत् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy