________________
पाणिनिमूहव्याख्या
९९१ । पधत्य तदर्थे । (६. ३. ५३)
पादस्य पत् स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । 'पादाभ्यां च ' (सू. 2098) इति यत् । पादार्थमुदकं पाद्यम् । निषेधात्पदादेशो न । माधे-VIIT. 14.
उत्क्षिप्तस्फुटितसरोरुहार्यमुच्चैः
सस्नेह विहगस्तैरिवालपन्ती। नारीणामथ सरसी सफेनहासा
प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ 1151 ।। पादार्थमुदकं पाद्यम् । “पादार्घाभ्यां च' (सू. 2093 ) इति यत् । अतदर्थ इति निषेधान्न पदादेशः ।
अस्मिन्नेव ग्रन्थे श्लो० 1160. पादाभ्यां गच्छन्तीति पदाः । 'अन्येष्वपि दृश्यते (सू. 3011) इति डः । पदिति योगविभागाद्गमोतरपदे पदादेशः ।
वा० । इके चरतावुपसंख्यानम् । ( 3958.) पादाभ्यां चरति पदिकः । पर्पादित्वात् छन् ।
९९२ । हिमकाषिहतिषु च । (६. ३. ५४) पद्धिमम् । पत्काषी | पद्धतिः।
अस्मिन्नेव ग्रन्थे श्लो० 752. पादौ कषन्तीति पत्काषिणः । ' सुष्यजातो' (सू. 2988) इति ताच्छील्ये णिनिः । अनेन पदादेशः । भट्टिकाव्ये-XVI. 28. मानुषो नाम पत्कापी
राजानं पुरुषाशिनाम् । योधयिष्यति संग्रामे
दिव्यास्त्ररथदुर्जयम् ॥ 1152 ॥ पत्काषी । पादाभ्यां गमनशीलः । पादस्य पदादेशः ।