________________
समासाश्रयविधिप्रकरणम्
३४५
९९० । पादस्य पदाज्यातिगोपहतेषु । (६. ३. ५२)
एघूत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्यां च ' ( उ. सू. 570) इति इण्प्रत्ययः । आजिः संग्रामः । आतिः पक्षी। 'पादे च। (उ. सू. 571) इति इणप्रत्ययः । पदातिः । पदगः । पदोपहतः ।
रघुवंशे-VII. 37.
पतिः पदाति रथिनं रथेशः
तुरङ्गसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्गजस्थं
तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ।। 1148 !! पादाभ्यामवतीति पदातिः । अनेन पदादेशः ।
चम्पूभारते-II. 110. द्विरदं द्विरदस्तुरंग तुरगो
रथिक रथिकः पदगं पदगः । इतरेतरमेत्य रण विदधे
दिवि नारदविस्मयनाकतरुम् ।। 1149 ।। पादस्य पदादेशः । भट्टिकाव्ये---III. 41.
वाचंयमान् स्थण्डिलशाविनश्च
युयुक्षमाणाननिशं मुमुक्षून् । अध्यापयन्तं विनयात् प्रणेमुः
पद्गा भरद्वाजमुनि सशिष्यम् ।। 1160 ।। पादाभ्यां गच्छन्तीति पद्गाः । 'अन्येष्वपि दृश्यते' (स्. 3011) इति डः । 'हिमकाषिहतिषु च' (सू. 992) इति चकारात् पदित्यादेशः । पदिति योगविभागाद्वा पद् इत्यादेशे पद् इति ।