________________
हुइय लिवनीति हलेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हलासः । भट्टिकाव्ये-xx, 22.
रावणाङ्कपरिक्लिष्टा व हल्लेवकरी मम ।
मत्तिं बधान सुग्रीवे राक्षसेन्द्र गृहाण वा ।। 1145 || हल्लेखकरी चेत:पीडनशीला । ताच्छील्ये टः । अनेन हृदादेशः । किरातार्जुनीये-IX. 57.
ओष्ठपल्लवविदंशरुचीनां
हृद्यतामुपययौ रमणानाम् । फुल्ललोचनविनीलसरोजै
रजनास्यचषकैर्मधुवारः ।। 1146 ॥ हृद्यतां हृदयस्य प्रियताम् । 'हृदयस्य प्रियः' ( सू. 1647 ) इति यत् । अनेन हृद्भावः।
युवाद्यणि सुहृदयस्य भावः सौहृदमिति । अनेन हृद्भावः । सौहृददौहृदशब्दावणि हृद्भावादिति वामनक्चनान्नोभयपदवृद्धिः । सुहृदोऽपत्यं सौहार्द । सुहृदो भावः सौहार्दम् । 'हृद्भग'(सू. 1133) इत्युभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 743. सुहृदयस्य भावः सौहृदमिति विग्रहः ।
रघुवंशे-XIV. 15.
वेश्मानि रामः परिबर्हवन्ति
विश्राण्य सौहार्दनिधिः सुहृद्धयः । बाष्पायमाणो बलिमन्निकेत
मालेख्यशेषस्य पितुर्विवेश ॥ 1147 ॥ मुहृदो भावः सौहार्दम् । सौजन्यम् ।
९८९ । वा शोकष्योगेषु । (६. ३. ५१) हृच्छोकः हृदयशोकः । सौहाद्यम् सौहृदय्यम् । हृद्रोगः हृदयरोगः ।