________________
॥ अथ समासाश्रयविधिप्रकरणम् ||
९८५ । वरूपकल्पचेलड्ब्रुयगोत्रमतहतेषु योऽनेकाचो ह्रखः । ( ६. ३. ४३ )
1
भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो हखः स्यात् वरूपकल्पयत्ययेषु परेषु, चेलडादिषु चोत्तरपदेषु । तरप्तमपौघसंज्ञकौ । ब्राह्मणितरा ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली | ब्राह्मणिब्रुचा । ब्राह्मणिगोत्रा इत्यादि । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ।
अस्मिन्नेव ग्रन्थे श्लो० 15. ईषदसमाप्तां पाश पाशीकल्पाम् पाशबन्धनसदृशीम् ।' बह्वादिभ्यश्च ' ( सू. 503 ) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् अनेन खो न भवति ।
माघे—VII. 68.
मुहुरिति वनविभ्रमाभिषङ्गा
दत्तमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽलसाः प्रकृत्या
चिरमपि ताः किमुत प्रयासभाजः || 1144 |
1
अतिशयेन मृदुः मृदुतरा । ' वोतो गुणवचनात् ' ( सु. 502 ) इति ङीषि अतिशयेन मृद्वी मृद्वितरा इति स्यात् । ' तसिल' (सू. 836 ) इति स्त्रियाः पुंवद्भावः । प्रभातकल्पा । प्रियतमा इत्यादि ।
९८७ । उगितश्च । ( ६. ३.४५ ) .
उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा | ह्रस्वाभावपक्षे तु ' तसिलादिषु ' ( सू. 836 ) इति पुंवत् । विद्वत्तरा ।
९८८ | हृदयस्य हृल्लेखयदण्लासेषु । ( ६. ३.५० )