________________
40
पाणिनिसूनव्याख्या
२६३ । आत्मनश्च । (६. ३.६) आत्मनस्तृतीयाया अलुक् स्यात् ।
वा० । पूरण इति वक्तव्यम् ( 3882.) दूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः ! पूरणे किम् । भात्म
अनवराघवे-VII. 32.
लरपरिभवनिःसहायदी___ रथ सुभगंकरणैरियं तपोभिः । तदकृत यदसौ निजेऽपि देहे
जयति जगत्पतिरात्मनाद्वितीयः।। 1118 । आत्मनाद्वितीयः । तृतीयाया अलुक् ।
९६४ । वैयाकरणाख्यायां चतुर्थ्याः । (६. ३. ७)
आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषा ! तादर्थे चतुर्थी । चतुर्थीवि योगविभागात्समासः ।
९६५ । परस्य च । (६. ३. ८) परस्मैपदम् । परस्मैभाषा।
९६६ । हलदन्तात्सप्तम्याः संज्ञायाम् । (६. ३. ९) हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ।
अस्मिन्नेव ग्रन्थे श्लो० 154. मनसि शेत इति मनसिशयः। 'अधिकरण' (सू. 2929) इत्यच् । अनेनालुक् । ' शयवासवासिषु' (सू. 976) इति .. असंज्ञायां विभाषयालुक् । रघुवंशे-XVI. 14.
वृक्षेशया यष्टिनिवासभंगा
न्मृदङ्गशब्दापगमादलास्याः ।