________________
३१७
सर्वसमासान्तप्रकार भट्टिकाव्ये--IV. S.
श्वःश्रेयसमवाप्तासि भ्रातृभ्यां प्रत्यभागि सा ।
प्राणिवस्तव मानार्थं जाश्वसिहि मा तदः ।। 1134 !! शोभनं श्रेयः श्वःश्रेयसम् । अच् ।
९४९ । अन्ववतप्ताद्रहसः । (५. ४, ८१)
अनुरहसम् । अवरहसम् । तप्तरहसम् ।
माघे-VII. 50.
इदमिदमिति भूरुहां प्रसूनै
र्मुहुरभिलोभयता पुरः पुरोऽन्या । अनुरहसमनायि नायकेन
त्वरयति रन्तुमहो जनं मनोभूः ॥ 1105 ॥ रहस्यनुरहसम् । विभक्त्यर्थेऽव्ययीभावः । अनेन समासान्तः । भट्टिकाव्ये-IV. 24.
राघवं पर्णशालायामिच्छानुरहलं पतिम् ।
यः स्वानी मम कान्तावानपिकर्णिकलोचनः ।। 1106 !! अनुरहसं रहसि । अध्ययीभावः । अनेनाच । अनुरइसं विवेकप्राप्तम् । अनुगतो रह इति विगृह्य अनेनाजिति जयमङ्गलः ।
अनर्घराघवे-IV. 6.
प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरी
नवोढा न ब्रीडामुकुलितमुखीय सुखयति । लिखन्तीनां पत्राङ्कुरमनिशमस्यास्तु कुचयो
श्चमत्कारो गूढं करजपदमासां कथयति ।। 1107 ।।
९५० । प्रतेरुरसः सप्तमीस्थात् । (५. ४.८२)