________________
मस्मिन्नेव अन्य इलो० 881. सन्तमसम् विधूचीनां तमः । 'विष्वक्सन्तमसन् ' I, rii. 4. इत्यमरः ।
माधे-XX. 47.
गतमन्तमसैर्जवेन भूयो
यदुयोधैयुधि रेघिरे द्विषन्तः । ननु चारिघरोघरोधमुक्तः
सुतरामुत्पते पतिः प्रभाणाम् ।। 1101 ॥ सन्तमसं विष्वक्तमः। अस्मिन्नेव ग्रन्थे श्लो० 582. सन्तमसः । अनर्थराघवे-VII. 61. स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाकुरो
देवः कैरवबन्धुरन्धतमसपाग्भारकुक्षिभरिः । संस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरेणीदृशां
गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ।। 1102 ॥ अन्धवमसम् । रघुवंशे--XI. 24.
तत्र दीक्षितमृषि रक्षतु
विनतो दशरथात्मजौ शरैः। लोकमन्धतमसाक्रमोदिती
रश्मिभिः शशिदिवाकराविव ॥ 1103 ॥ अन्धतमसात् ।
९४८ । श्वसो वसीयःश्रेयसः । (५. ४. ८०) वसुशब्दः प्रशस्तवाची । तत ईयसुनि वसीयः । श्वसशब्द: उत्तरपदार्थप्रशंसामाशीविषयमाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसं श्वःश्रेयसं ते भूयात् ।