________________
९२५ । इमृद्धौ । ( ६. ३. २८) वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्यादेवताद्वन्द्वे । अग्नमरुती देवते अस्य आमिमारुतं कर्म । अग्नीवरुणौ देवते अस्य आमिवारुणन् । 'देवता द्वन्द्वे च : (सू. 1239 ) इत्युभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 1055. आनिमारुतम् ।
९२६ । दिवो द्यावा । (६. ३. २९) देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामे । चम्पूभारते-II. 71. द्यावाभूमी निरुन्धन् यदुबलरजसां श्रेणिभिः सीरपाणि
वेंगादागात्स वीरः स्वविनयगुरुणा शौरिणान्वीयमानः । आहारश्वायुधं च द्विषदवमतये येन संसेव्यमाने
ते द्वे हालाहलत्वं रणभुवि वहतो नामतः कृत्यतश्च ।। 1057 ।।
९२७ । दिवसश्च पृथिव्याम् । (६. ३. ३०) दिव इत्येव । चायावा । योश्च पृथिवी च दिवम्पृथियो । द्यावापृथियो । अनघराघवे-I, 40.
ग- अलं च ते रामभद्रेऽपि बालोऽयमित्यलोकसंभावनया । दिवस्पृथिव्योस्तिमिरतिरस्करिणी तरणिरणुतरोऽपि तेजसा तिरस्करोति ॥ 1058 ॥
दिवस्पृथिव्यौ। रघुवंशे-X. 55.
स तेजो वैष्णवं पत्नयोविभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ॥ 1059 ।। द्योश्च पृथिवी च द्यावापृथिव्यौ । चकारादिवशब्दस्य द्यावादेशः ।
९२८ । उपासोषसः । (६. ३. ३१)