________________
26
पाणिनिसूत्रव्याख्या
सूर्याचन्द्रमसः प्रवेशविकलां लङ्कापुरीमभिना
शुद्धां कर्तुममुष्य वासवजितो जातो रणत्तोरणे | 1058 ||
सूर्याचन्द्रमसः ।
अराघवे - VII. 188.
ईदृशाः प्रागजायन्त राजानो यदिहान्वये । चन्द्रावार्हस्पत्यस्य वैभवम् || 1054 ||
इन्द्रपति इन्द्राबृहस्पती | यानङ् । इन्द्रावृहस्पती देवतं यस्य ऐन्द्रावाहस्पत्यम् । उभयपदवृद्धिः ।
९२३ । ईदग्ने: सोमवरुणयोः । ( ६.३.२७ )
tania इत्येव । इतीत्वम् । अमिश्च सोमश्च अमीषोमौ । अम्मीवरुणौ । वरुणयोः किम् ।
उत्तररामचरित - V. 45.
षत्वम् ।
देवस्त्वां सविता घिनोतु समरे गोत्रस्य यस्ते पिता त्वां मैत्रावरुणोऽभिनन्द गुरुयैस्ते गुरूणामपि ।
ऐन्द्रं वैष्णवमाग्निमारुतमथो सौपर्णमोजस्तु ते
देवादेव च रामलक्ष्मणतनुर्ज्याघोषमन्त्रो जयम् ॥ 1055 ||
अग्निश्च मरुच्च अम्मामरुतौ । अत्र ईत्वं न । आनङ्। तयोरिदमा ग्निमारुतम् । उभयपदवृद्धिः । ( 'इद्वृद्धौ ' ( सू. 925 ) इति इत्. ।
९२४ । अग्नेस्स्तुत्स्तोमसोमाः । ( ७.३.७२ )
अग्नेः परेषामेषां सस्य षः स्यात्समासे । अमिष्टत् । अग्निष्टोमः । अमीषोमौ ।
भट्टिकाव्ये -- IX, 79.
अग्निष्टोमादिसंस्थेषु ज्योतिष्टोमादिषु द्विजान् ।
योऽरक्षीत्तस्य दूतोऽयं मानुषस्येति चावदन् ॥ 1056 ॥