________________
३१०
वाणिनिन्दाया
उषसशब्दस्योषासादेशो देवताद्वन्द्वे । उवासासूर्यम् ।
९२९ | मातरपितरावुदीचाम् । ( ६.३.३२ )
मातरपितरौ । उदीचां किम् । मातापितरौ । 1
९३० | द्वन्द्वाच्चुदषहान्तात्समाहारे । ( ५. ४. १०६ )
चवर्गान्ताद्दषहान्ताश्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक्च व वाक्त्वचम् | त्वम् । शर्माषदम् । चक्त्विषम्। छत्रोपानहम् ।
अस्मिन्नेव मन्थे लो० 827. वाक्त्वचम् |
भट्टिकाव्ये – IV. 9.
ऋग्यजुषमधीयानान्सामान्यांश्च समर्चयन् ! बुभुजे देवसात्कृत्वा शूल्यमुख्यं च होमवान् ॥ 1060 ॥ ऋक्च यजुश्च ऋग्यजुषम् । ' अचतुर' (सू. 945 ) इत्यादिना निपातितम् । अनेन टच् ।
वा • । सर्वो द्वन्दो विभाषैकवद्भवति ।
1
अस्मिन्नेव ग्रन्थे श्लो० 396. सौमित्रिश्च सीता च सौमित्रिसीतम् । अन्यथानुचरशब्दस्य पचादिषु चरडिति टित्करणात्स्त्रियां ङीपि 'नद्यूतश्च' (सू. 838 ) इति कप्प्रसङ्गात् । समासान्तानित्यत्वेऽपि पुंवद्भावानुपपतेरिति मल्लिनाथः । सौमित्रिसीतानुचरस्य । सौमित्रिश्च सीता च सौमित्रिसीते। अनुचरतीत्यनुचरः । स्त्रियामनुचरी । 'भिक्षासेना' (सू. 2931 ) इत्यादिना टः । अनुचरश्चानुचरी चानुचरौ । ' पुमास्त्रिया (सू. 988 ) इत्येकशेषः । सौमित्रिसीते अनुचरौ यस्म तथोक्तस्येति
जयमङ्गलः ।
॥ इति द्वन्द्वसमासप्रकरणम् ॥