SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या अस्मिन्नेव मन्थे श्लो० 219. हिताहितम् हिताहिते । द्वन्द्वैकवद्भावः ! माधे-~-XVI. 44. अनपेक्ष्य गुणागुणं जनः स्वरुचिं निश्चयतोऽनुधावति । अपहाय महीशमार्चिच त्सदसि त्वां ननु भीमपूर्वजः ।। 1047 ॥ गुणागुणम् । पूर्ववत् । माघे-VI. 44. समय एवं करोति बलानलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृत स्वरमयूरमयू रमणीयताम् ॥ 1048 ॥ बलावलम् । पूर्ववत् । ९१८ । न दधिपयआदीनि । (२. ४. ५४) एतानि नैकवत्स्युः । दधिपयआदिः --२. १७. दघि च पयश्च दधिपयसी । व्यञ्जनद्वन्द्वैकवद्भावो न । इध्माबर्हिषी । निपातनादीर्घः । ऋक्सामे । वाल्मनसे। 'अचतुर' (सू. 945 ) इत्यादिना समासान्तोऽन् । रघुवैशे-x. 16. प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् || 1049 ॥ वाक्च मनश्च वाङ्मनसे । 'अचतुर' (सू. 945) इत्यादिनाच् । अनेन नैकवत् । ९२१ । आनङ् ऋतो द्वन्द्वे । ( ६. ३. २५) विद्यायोनिसंबन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यात् । होतापोतारौ । मातापितरौ । 'पुत्रेऽन्यतरस्याम्' (सू. 980) इत्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तः पितापुत्रौ ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy